काल भैरव अस्टकम

अष्टकदेवराजसेव्यमानपावनांगृपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।नारदादियोगिवृन्दवन्दितं दिगम्बरं काशीपुराधिनाथकालभैरवं भजे ॥ ॥भानुकोटिभास्वरं भवब्धितारकं परं नीलकंठमीप्सितार्थदयकंलोचन त्रिम्।कालकालमंबुजक्षमक्षूलमक्षरं काशीपुराधिनाथकालभैरवं भजे ॥ 2॥शूलटंकपाषदण्डपाणिमादिकरणं श्यामकायमादिदेवमक्षरं निरामयम्।भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशीपुराधिनाथकालभैरवं भजे ॥ 3॥भुक्तिमुक्तिदायकं पूर्णचारुविग्रहं भक्तवत्सलं स्थितं सर्वलोकविग्रहम्।विनिक्वन्नमनोज्ञहेमकिङ्किनिलसत्कटीं काशीपुराधिनाथकालभैरवं भजे॥ 4॥धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम्।स्वर्णवर्णशेषपाशशोभितांगमंडलं काशीपुराधिनाथकालभैरवं भजे ॥ 5॥रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम्।मृत्युदर्पणं करालदंष्ट्रमोक्षणं काशीपुराधिनाथकालभैरवं भजे ॥ 6॥अट्टहासविभिन्नपद्मजण्डकोशसन्ततिं दृष्टिपातत्तनष्टपापजालमुग्रशासनिम्।अष्टसिद्धिदायकं कपालमालिकाधरं काशीपुराधिनाथकालभैरवं भजे ॥ 7॥भूतसंघनायकं विशालकीर्तिदायकं काशीवासलोकपुण्यपापशोधकं विभुम्।नीतिमार्गकोविदं पुरातनं जगत्पतिं काशीपुराधिनाथकालभैरवं भजे ॥ 8॥॥ फलश्रुति॥कालभैर्वाष्टकं पाठन्ति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम्।शोकमोहादन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवन्घृसंननिधिं नरा ध्रुवम् ॥॥इति कालभैरवाष्टकम् सम्पूर्णम्

टिप्पणियाँ

एक टिप्पणी भेजें